Sbg 7.19 scdhan
Sanskrit Commentary By Sri Dhanpati ।।7.19।।ज्ञानी अतिदुर्लभ इति पुनरपि तं स्तौति। बहूनां ज्ञानार्थ पुण्यसंस्काराश्रयणामन्ते सर्वपुण्यसंस्कारपरिपाकरुपे चरमजन्मनि लब्धपरिपाकज्ञानो मां वासुदेवं प्रत्यगात्मनं प्रपद्यते। कथं प्रपद्यत आह। वासुदेवः सर्वमिति। यदिदं सर्वं चराचरात्मकं भ्रान्त्या भाति तत्सर्वं किमपि वासुदेवातिरिक्तं न भवतिवाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यंतदनन्त्वमारम्भणशब्दादिभ्यः इत्यादिश्रुतिसूत्रेभ्यः सर्वाधिष्टानं मां ज्ञात्वा मामेव परमात्मानं निरतिशयनिरुपाधिप्रेमविषयत्वेन भजति स महात्मा न तत्समोऽभ्यधिको वान्योऽस्तीत्यर्थः। अतः सुदुर्लभः अतिशयेन दुर्लभः। तदुक्तंमनुष्याणां सहस्त्रेषु कश्चिद्यतति सिद्धये। यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः इति।