Sbg 7.19 scanand
Sanskrit Commentary By Sri Anandgiri ।।7.19।।उत्तरश्लोकस्य गतार्थत्वं परिहरति ज्ञानीति। ज्ञानार्थसंस्कारो वासना तत्तज्जन्मनि पुण्यकर्मानुष्ठानजनिता बुद्धिशुद्धिस्तदाश्रयाणां तद्वतामनन्तानां जन्मनामिति यावत्। ज्ञानवत्त्वं प्राक्तनेष्वपि जन्मसु संभावितमित्याशङ्क्याह प्राप्तेति। ज्ञानवतो भगवत्प्रतिपत्तिं प्रश्नद्वारा विवृणोति कथमिति। यथोक्तज्ञानस्य तद्वतश्च दुर्लभत्वं सूचयति य एवमिति। महत्सर्वोत्कृष्टमात्मशब्दितं वैभवमस्येति महात्मा। महात्मत्वे फलितमाह अत इति। तत्र वाक्योपक्रमानुकूल्यं कथयति मनुष्याणामिति।