Sbg 7.19 scram
Sanskrit Commentary By Sri Ramanuja ।।7.19।। बहूनां जन्मनां पुण्यजन्मनाम् अन्ते अवसाने वासुदेवशेषतैकरसः अहं तदायत्तस्वरूपस्थितिप्रवृत्तिः च स च असंख्येयैः कल्याणगुणैः परतरः इति ज्ञानवान् भूत्वा वासुदेव एव मम परमप्राप्यं प्रापकं च अन्यदपि यन्मनोरथवर्ति स एव मम् तत् सर्वम् इति मां यो प्रपद्यते माम् उपास्ते स महात्मा महामनाः सुदुर्लभः दुर्लभतरः लोके।
वासुदेवः सर्वम् इत्यस्य अयम् एव अर्थः।प्रियो हि ज्ञानिनोऽत्यर्थमहम् (गीता 7।17)आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् (गीता 7।18) इति प्रकमात्।ज्ञानवान् च अयम् उक्तलक्षण एव अस्य एव पूर्वोक्तज्ञानित्वात्।भूमिरापः इति आरभ्य अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा। अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्।।