Sbg 7.14 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha
।।7.14।।उक्तायामर्थस्थितौ मोह एवायं न घटत इति शङ्कायांदैवी इत्यादिकमवतारयति कथमिति।सर्वस्येति सत्त्वोत्तरतया तत्त्वज्ञानप्रच्युतिरहिताया देवजातेरिति भावः। उत्कृष्टापकृष्टसन्निधावुत्कृष्टग्रहणशीलताभोक्तृवर्गस्येत्यनेन सूचिता। हिशब्दोऽत्र दुरतिक्रमत्वहेत्वर्थः। देवेन निर्मिता दैवीति तद्धितार्थः।दिवु क्रीडा इत्यादिधातौ देवशब्दनिष्पतिः एतेनदेवात्मशक्तिम् श्वे.उ.1।3 इति श्रुतिसूचनम्।दैवी मम इति शब्दाभ्यां मायाप्रवर्तकस्य देवस्य मायिनश्च कृष्णस्य भेदभ्रमव्युदासायमयैवेत्युक्तम्। नहि स्वच्छन्देनाघटितघटनासमर्थेनेश्वरेण लीलार्थं प्रवर्तिता माया अनीश्वरैः सर्वभूतैरपि लङ्घितुं शक्यत इतिसर्वैरित्यस्य भावः। अत्ययशब्दस्यात्र नाशार्थत्वव्युदासायाह दुरतिक्रमेति। दुःखेनातिक्रमणीया भगवत्प्रपत्तिरहितैर्लङ्घयितुमशक्यैव। मायाशब्दस्य पराभिमतमर्थं दूषयिष्यन् स्वाभिमतमर्थं तावदाहअस्या इति। सत्येष्वेवासुरराक्षसास्त्रादिषु मायाशब्दप्रयोगो न मिथ्यात्वनिबन्धन इति भावः।
यथा चेतितेन मायासहस्रम् इत्यत्र न मिथ्यार्थविषयत्वमुत्प्रेक्षितुमपि शक्यम् मिथ्याभूतस्य शस्त्रनिषूदनीयत्वाभावादिति भावः। आदिशब्देनमायया सततं वेत्ति प्राणिनां च शुभाशुभम्देवमायेव निर्मिता इत्यादिप्रयोगसङ्ग्रहः। अपिच दण्डनीतौ सामाद्युपायचतुष्टयादन्ये मायोपेक्षेन्द्रजालरूपा अमुख्यास्त्रय उपाया उपदिष्टाः तत्र माया अन्यथाभूतस्य वस्तुनोऽन्यथाकरणशक्तिः। इन्द्रजालं तु तथाप्रतिभासनशक्तिरिति विभागः। तस्मात्सत्यविषय एव मायाशब्द इत्यभिप्रायेणाह अत इति। मायाशब्दप्रयोगस्य सत्यविषयत्वादित्यर्थः। ननु मिथ्याभूतार्थप्रदर्शकेषु तत्सम्बन्धान्मायाविशब्दः प्रयुज्यते अतो मायाशब्दो मिथ्यार्थेऽपि प्रयुक्त इत्यत्राहऐन्द्रजालिकेति। असत्यत्ववदसत्योत्पादकत्वमपि न मायाशब्दप्रवृत्तिनिमित्तमिति दर्शयितुंपारमार्थिक्या एवेत्युक्तम्। भ्रान्तिज्ञानमपि स्वरूपतः सत्यम् आरोपितस्तु विषयो मिथ्येत्युच्यते। तथाप्यन्ततो मिथ्यार्थसम्बन्धो निमित्तमित्यत्राहतथेति। मन्त्रौषधादेर्मिथ्यार्थस्य च सन्निधाने किं विशेषनियामकं इत्यत्राहसर्वेति। न ह्येकशक्त्यैव निर्वाहे सम्भवत्यनेकशक्तिकल्पना युक्तेति भावः। मिथ्याभूतेष्वेवार्थेषु मायेयमिति प्रयोगो भवति तत्र च विचित्रकार्यकरत्वाभावान्मिथ्यात्वमेव निमित्तमाश्रयणीयमित्यत्राहतत्रेति। अयं भावः यत्र सम्बन्धाद्गुणयोगाद्वा प्रयोगो दुर्निर्वहः तत्र हि शक्त्यन्तरकल्पनागौरवं सह्यम् सम्भवति चात्र परम्परया सम्बन्धः मायाकार्यज्ञानविषयत्वात्। न मिथ्यात्वे प्रवृत्तिनिमित्ततया स्वीकृतेऽस्त्रादिषु तत्सम्बन्धगन्धः। मिथ्यार्थस्य च गुणाभावादेव तद्गुणयोगो दूरनिरस्तः। अपिच मिथ्याभूतेषु शुक्तिकारजतादिषु तत्प्रयोगाभावान्मिथ्यात्वविशेषे निष्कृष्यमाणे अस्मदुक्त एव विशेषेऽन्तर्भवतीति।त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते। ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम्योगनिद्रा महामाया इत्यादिष्वपि भगवतो विचित्रकार्यविशेषोपयोगितया वा प्रकृतितत्त्वाभिमानिदेवतात्वादिरूपेण वा मायेत्युक्तम्। अतो युक्तं विचित्रकार्यकरत्वमेव मायाशब्दप्रवृत्तिनिमित्तमिति। श्रुतावपि विचित्रसृष्ट्युपादाने प्रकृतौ सत्यायामेव मायाशब्दः प्रयुक्त इत्याह एषेति। महेश्वरशब्द
स्यात्र
रुद्रविषयत्वभ्रमव्युदासाय भगवच्छब्दः। श्वेताश्वतरोपनिषदपि पुरुषसूक्तप्रत्यभिज्ञानमहापुरुषशब्दसत्त्वप्रवर्तकत्वादिभिर्भगवद्विषयतयैव प्रतीयते। महेश्वरशिवादिशब्दास्तु तस्मिन्नवयवशक्त्या गुणयोगेन वा प्रवृत्ताः रुद्रस्यान्यत्र कार्यत्वकर्मवश्यत्वसम्प्रतिपत्तेरिति भावः। मायां तु प्रकृतिं विद्यात् श्वे.उ.4।10 इति न तत्र प्रकृत्यनुवादेन मायात्वं विधीयते किन्तु मायाशब्दार्थानुवादेन प्रकृतित्वमिति वाक्यस्वारस्यावगतम्। पूर्वत्र अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः श्वे.उ.4।9 इत्यभिहिते केयं मायत्याकाङ्क्षायां प्रवृत्तत्त्वादिति भावः। अस्मिन्प्रकरणे मायाशब्दप्रयोगनिदानमत्रोपयुक्तं विचित्रकार्यं दर्शयतिअस्या इति। तदेतदखिलमभिप्रेत्य भगवद्यामुनमुनिभिरुक्तंस्वयाथात्म्यं प्रकृत्याऽस्य तिरोधिः शरणागतिः गी.सं.11 इति। चोद्यपरिहारतां दर्शयन्नुपसंहरति अत इति।प्रकृत्यास्य तिरोधिः शरणागतिः इति संग्रहश्लोके तन्निवृत्त्यर्थमित्यध्याहर्तव्यमिति दर्शयन्ननन्तरग्रन्थमवतारयति मायाविमोचनेति। यच्छासनादलङ्घनीयं निगलनं तन्निवृत्तिरपि तेनैव कार्या नत्वन्येनेतिमामेव इत्यवधारणाभिप्रायं व्यञ्जयतिसत्यसङ्कल्पमिति। नहि बन्धविषय एव हि सङ्कल्पः सत्यः अपितु मोक्षविषयोऽपीति स एव प्रपदनीय इति भावः। शक्तस्यापि निर्घृणस्य प्रपत्त्या न किञ्चित्प्रयोजनमित्यत उक्तंपरमकारुणिकमिति। कारुणिकस्यापि लोकवत्परिग्राह्यापरिग्राह्यविभागे किमस्यासह्यापराधशालिनो जनस्य तत्प्रपत्त्या इत्यत्रोक्तम्अनालोचितेत्यादि। वायसशाखामृगविभीषणद्रौपदीप्रभृतिषु चैतत्स्पष्टम्।यदि वा रावणः स्वयम् वा.रा.6।18।34 इति च तदुक्तिः।एताम् इत्यस्याभिप्रेतमाह मदीयां गुणमयीमिति। अपीति शेषः। उपासनप्रकरणत्वाद्वक्ष्यमाणार्तादिचतुष्टयसाधारणत्वाच्चोपासनाङ्गभूता प्रपत्तिरत्रोच्यत इत्यभिप्रायेणाहमायामुत्सृज्येति।