Sbg 7.9 scneel
Sanskrit Commentary By Sri Neelkanth ।।7.9।। पुण्य इति। रसादिष्वपि द्रष्टव्यम्। अपुण्यस्य सर्वस्याविद्यामात्रविलसितत्वात्। विभावसौ वह्नौ तेजः दहनशक्तिः। जीवन्त्यनेनेति जीवनमन्नं विराजम्। तत्र हि सर्वाणि भूतानि प्रोतानि। अन्ये तु जीवनं आयुरिति व्याचक्षते तपश्चेति। तपो धर्मस्तद्रूपे मयि तपस्विनः प्रोताः।