Sbg 7.8 scneel

From IKS BHU
Revision as of 12:23, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।7.8।।नन्वेवं प्रपञ्चपरमात्मनोर्मणिसूत्रवदुपादानोपादेयभावोऽपि न स्यात्। नहि उपादानं चाननुवृत्तं चेति घटते मृद्धटादावदर्शनादित्याशङ्क्य स्वप्नमायेन्द्रजालरज्जूरगतुल्यत्वं प्रपञ्चस्योपपाद्योभयमप्यविरुद्धमित्युपदिष्टं चेदयमकस्मादुद्विग्नो भविष्यतीति मत्वा दृष्टान्तान्तरैरेवानुवृत्तिं व्यावृत्तिं चिज्जडयोर्दर्शयति रस इति। यथा रसोऽप्सु एकमप्यप्परमाणुमपरित्यज्यानुस्यूतो दृश्यतेऽतो रसरूपे मयि आपः प्रोताः एवं प्रभायां चन्द्रादयः प्रोताः प्रणवे सर्वे वेदाः प्रोताःतद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमोंकारेण सर्वा वाक् संतृण्णा इति वाङ्मात्रे प्रणवानुस्यूतिश्रवणात्। संतृण्णानि संग्रथितानि। एवमाकाशे शब्दः सारभूतस्तस्मिन्मयि खं प्रोतम्। सर्वपुरुषेषु सारं पौरुषं शौर्यर्धैर्यादिरूपं तत्र पुरुषाः प्रोताः। एवमग्रेऽपि द्रष्टव्यम्।