Sbg 7.5 scneel
Sanskrit Commentary By Sri Neelkanth ।।7.5।।एवं क्षेत्रात्मिकां प्रकृतिमुक्त्वा क्षेत्रज्ञात्मिकां तामाह अपरेयमिति। इयं प्रागुक्ता सा अपरा अश्रेष्ठा जडत्वात्। इतस्तु विलक्षणामन्यां परां चेतनत्वेन मदनन्यत्वादुत्कृष्टां मे मत्संबन्धिनीं प्रकृतिं जीवभूतां प्राणधारणनिमित्तभूतां क्षेत्रज्ञाख्यां विद्धि जानीहि। हे महाबाहो यया प्रकृत्या अन्तःप्रविष्टया इदं जगत्स्थावरजंगमशरीरात्मकं धार्यते।