Sbg 7.5 scjaya

From IKS BHU
Revision as of 12:22, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।7.5।।अपरशब्दस्यानेकार्थत्वात् विवक्षितमर्थमाह अपरे ति। अनुत्तमत्वस्य सापेक्षत्वात् किमपेक्षयेत्यत आह वक्ष्यमाणामि ति। सन्निधानादिति भावः। जीवलक्षणां जीवत्वं प्राप्तमिति व्याख्याननिरासार्थमाह जीवभूते ति। कथं सा जीवभूता इत्यत आह जीवानामि ति। प्राणधारिणीत्येवोक्ते स्वप्राणधारिणीतिप्रतीतिः स्यात् तन्निरासार्थमुक्तं जीवानामि ति। सर्वजीवदेहेषु स्थित्वा तदीयान्प्राणांस्तत्र धारयतीत्यर्थः। स्वप्राणधारिणी कुतो न स्यात् इत्यत आह चिद्रूपे ति। ज्ञानात्मकविग्रहवती। यद्वाजीव प्राणधारणे इत्यतो जीवशब्दस्य यौगिकार्थमुक्त्वा गौणीं वृत्तिमाश्रित्यार्थान्तरमनेनोक्तम्। भूतशब्दस्य सर्वदासत्त्ववाचित्वे प्रयोगं दर्शयति एतदि ति। प्रकृतिमपेक्ष्य श्रियः परत्वोपपादनार्थमेतत्भूमिः इत्यादेरभिमतमर्थं पुराणवाक्येन स्थापयति जगाद चे ति। देवस्यैव। सृज्यत इति सृष्टिः कार्यं कार्यरूपेणेत्यर्थः। अनेन भूम्यादिशब्दैः पञ्चतन्मात्राण्येवोच्यन्ते न स्थूलानि भूतानि। मन इति तत्कारणमहङ्कारः बुद्धिरिति महत्तत्त्वम् अहङ्कार इत्यविद्यासंयुक्तमव्यक्तंभिन्ना प्रकृतिरष्टधा इति वचनादिति व्याख्यानं निरस्तम्। कार्यरूपेणाष्टधा भिन्नेति व्याख्यानसम्भवेन प्रसिद्धार्थपरित्यागायोगान्महत्यहङ्कारस्यान्तर्भाव इत्येवेति सम्बन्धः। जडेत्यवरत्वोपपादनम्।श्रीः परा इत्यस्योपपादनमियं धार्यते तयेत्यादि। अनन्ता देशतः गुणतश्च। परा मुख्या। अनादिनिधना नत्वव्यक्तवद्विक्रियावती।