Sbg 6.43 scdhan

From IKS BHU
Revision as of 12:03, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।6.43।।एतादृशजन्मनो दुर्लभतरत्वं कस्मात् यस्मात्तत्र योगिनां कुले तं पौर्वदेहिकं पूर्वदेहे भवं बुद्धिसंयोगं बुद्य्धा निष्कामकर्मणा शुद्धया श्रवणादिसंपन्नया संयोगं लभते प्राप्नोति। ततस्तस्मात्पूर्वदेहाभ्याससंस्कारद्भूयो बहुतरं संसिद्धौ मोक्षार्थ यतते तत्त्वसाक्षात्कारं यत्नेन संपादयतीत्यर्थः। यत्त्वेतादृशजन्मद्वयदुर्लभत्वं कस्माद्यस्मात् तत्र द्विःप्रकारेऽपि जन्मनीति तदुपेक्ष्यम्। अथवेत्यादिनोक्तपक्षस्य श्रेष्ठ्यप्रतिज्ञाया हेतोरावश्यकत्वात्। अन्यथोभयोरपि साभ्यप्रसङ्गे पतिज्ञाघातापत्तेः। योगिनां श्रीमता कुले जातस्य यथा योगित्वं बुद्धिमर्त्त्व च भवति तथा क्षात्रधर्मेऽतिकुशलस्य कुरोर्वंशे जातस्य तवापि स्वकुलोचितधर्मसंबन्ध आवश्यक इति सूचयन्नाह हे कुरुनन्दनेति।