Sbg 6.43 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।6.43।। ततः किमत आह तत्रेति सार्धेन। तत्र द्विःप्रकारेऽपि जन्मनि पूर्वदेहे भवं पौर्वदेहिकं तमेव ब्रह्मविषयया बुद्ध्या संयोगं लभते। ततश्च भूयोऽधिकं संसिद्धौ मोक्षे प्रयत्नं करोति।