New page: Difference between revisions
imported>Gagan No edit summary |
imported>Gagan No edit summary |
||
| Line 1: | Line 1: | ||
सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः [[1/1/28]] | सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः [[1/1/28]] | ||
समानतन्त्रसिद्धःपरतन्त्रसिद्धःप्रतितन्त्रसिद्धान्तः 1/1/29 | समानतन्त्रसिद्धःपरतन्त्रसिद्धःप्रतितन्त्रसिद्धान्तः [[1/1/29]] | ||
यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः 1/1/30 | यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः 1/1/30 | ||
Revision as of 16:40, 26 December 2024
सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः 1/1/28
समानतन्त्रसिद्धःपरतन्त्रसिद्धःप्रतितन्त्रसिद्धान्तः 1/1/29
यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः 1/1/30
अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः 1/1/31
प्रतिज्ञाहेतुदाहरणोपनयनिगमनान्यवयवाः 1/1/32
साध्यनिर्देशः प्रतिज्ञा 1/1/33
उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः 1/1/34
तथा वैधर्म्यात् 1/1/35
साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् 1/1/36
तद्विपर्ययाद्वा विपरीतम् 1/1/37
उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः 1/1/38
हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् 1/1/39
अविज्ञाततत्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः मूहस्तर्कः 1/1/40
विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः 1/1/41
प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोवपन्नः पक्षप्रतिपक्षपरिग्रहो वादः1/2/1
यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः 1/2/2
स प्रतिपक्षस्थापनाहीनो वितण्डा 1/2/3
सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः 1/2/4
अनैकान्तिकः सव्यभिचारः 1/2/5
सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः 1/2/6
यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः 1/2/7
साध्याविशिष्टः साध्यत्वात्साध्यसमः 1/2/8
कालात्ययापदिष्टः कालातीतः 1/2/9
वचनविघातोऽर्थविकल्पोपपत्त्या छलम् 1/2/10
तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलञ्चेति 1/2/11
अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् 1/2/12
सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यछलम् 1/2/13
धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् 1/2/14
वाक्छलमेवोपचारच्छलं तदविशेषात् 1/2/15
न तदर्थान्तरभावात् 1/2/16
अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः 1/2/17
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः 1/2/18
विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् 1/2/19
तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् 1/2/20