बुद्धेरात्मगुणत्वप्रकरणम्

From IKS BHU
Jump to navigation Jump to search

नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् 3/2/18

युगपज्ज्ञेयानुपलब्धेश्च न मनसः 3/2/19

तदात्मगुणत्वेऽपि तुल्यम् 3/2/20

इन्द्रियैर्मनसः सन्निकर्षाभावात् तदनुत्पत्तिः 3/2/21

न; उत्पत्तिकारणानपदेशात् 3/2/22

विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः 3/2/23

अनित्यत्वग्रहाद् बुद्धेर्बुर्द्धयन्तराद्विनाशः शब्दवत् 3/2/24

ज्ञानसमवेतात्मप्रदेशसन्निकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः 3/2/25

न; अन्तः शरीरवृत्तित्वान्मनसः 3/2/26

साध्यत्वादहेतुः 3/2/27

स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः 3/2/28

न तदाशुगतित्वान्मनसः 3/2/29

न; स्मरणकालानियात् 3/2/30

आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः 3/2/31

व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् 3/2/32

प्रणिधानलिङ्गदिज्ञानानामयुपद्भावादयुगपदस्मरणम् 3/2/33

ज्ञस्येच्छाद्वेषनिमित्तित्वादारम्भनिवृत्त्योः 3/2/34

तल्ल्ङ्गित्वादिच्छाद्वेषयोः पार्थिवाद्येप्वप्रतिषेधः 3/2/35

परश्वादिष्वारम्भनिवृत्तिदर्शनात् 3/2/36

नियमानियमौ तु तद्विशेषकौ 3/2/37

यथोक्तहेतुत्वात् पारतन्त्र्यादकृताभ्यागमाच्च न मनसः 3/2/38

प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहणाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयाऽर्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः 3/2/39