दोषत्रैराश्यप्रकरणम्

From IKS BHU
Jump to navigation Jump to search

तत्त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् 4/1/3

नैकप्रत्यनीकभावात् 4/1/4

व्यभिचारादहेतुः 4/1/5

तेषां मोहः पापीयान्नामूढस्येतरोत्पत्तेः 4/1/6

निमित्तनैमित्तकभावादर्थान्तरभावो दोषेभ्यः 4/1/7

न दोषलक्षणावरोधान्मोहस्य 4/1/8

निमित्तनैमित्तिकोपपतेश्च तुल्यजातीयानामप्रतिषेधः 4/1/9