अर्थपरीक्षाप्रकरणम्
Jump to navigation
Jump to search
गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः 3/1/54
अप्तेजोवायूनां पूर्वपूर्वम पोह्याकाशस्योत्तरः 3/1/55
न सर्वगुणानुपलब्धेः 3/1/56
एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तराणां तदनुपलब्धिः 3/1/57
विष्टं ह्यपरं परेण 3/1/58
नः पार्थिवाप्ययोः प्रत्यक्षत्वात् 3/1/59
पूर्वपूर्वगुणोत्कर्षात् तत्तत्प्रधानम् 3/1/60
तद्व्यवस्थानं तु भूयस्त्वात् 3/1/61
सगुणानामिन्द्रियभावात् 3/1/62
तेनैव तस्याग्रहणाच्च 3/1/63
न शब्दगुणोपलब्धेः 3/1/64
तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् 3/1/65